संस्कृत भाषा की वैज्ञानिकतासंस्कृत भाषा की वैज्ञानिकता

संस्कृतभाषायाः वैज्ञानिकता  | संस्कृत भाषा की वैज्ञानिकता | Scientism of Sanskrit language- संस्कृतभाषा एका वैज्ञानिकी भाषा अस्ति नास्ति अत्र कोऽपि संशय: । संस्कृतभाषाया: महत्वं तु प्राचीनकालात् एव अर्थात वैदिककाले संस्कृतभाषा व्यवहारिकभाषा रूपेण आसीत्। संस्कृतभाषाया: वैज्ञानिकता यावत् प्राचीनकाले आसीत् तावत् आधुनिक युगेऽपि अस्ति । वैदिककाले संस्कृतभाषायां न केवलं शिक्षणं भवति स्म अपितु चिकित्सा, खगोल:, दर्शनम्, आयुर्वेद:,धनुर्वेदः, शिल्पवेद :, ज्योतिषम्, व्याकरणम् इत्यादयः एतद्  अतिरिक्तकर्मकाण्डमपि संस्कृतभाषायां भवति स्म। आधुनिक विषयेषु विज्ञानम्,अर्थशास्त्रम्,गणितम्, इतिहास: राजनीतिशास्त्रम् इत्यादय: सर्वे विषयाः वैदिककाले संस्कृतभाषायाम् एव भवति स्म। वयं जानीमः अस्माकं भारतदेश: विश्वगुरुः आसीत्। कालान्नतरम् अस्माकं देशे अनेका: आक्रमणा: अभवत्। संस्कृतभाषायाः वैज्ञानिकता  | संस्कृत भाषा की वैज्ञानिकता | Scientism of Sanskrit language । भारते  मुगलानाम्,आंग्लशासकानाम् अधिकार: बभूव, येन कारणेन् अस्माकं देशे अनेकानि  विकॄतानि अभवन्। अस्माकं देशस्य संस्कृति: अपि प्रभाविता अभवत्। येन कारणेन अस्माकं शिक्षापद्धति अपि प्रभाविता अभवत्। किञ्चिनकालातन्नतरं यदा अस्माकं देशे आंगलभाषापद्धतया: एव प्रभाव: वर्तते। अस्माकं संस्कृत भाषा केवलं कर्मकाण्डपर्यन्तम् एव सीमिता अस्ति अस्या: भाषाया: वैज्ञानिकता का ? इत्यस्मिन् विषये वयं सर्वे: विस्मृतवन्तः। अत: वयम् अधुना संस्कृत भाषायाः वैज्ञानिकता का अस्ति तथा च प्राचीनकाले (वैदिककाले) का वैज्ञानिकता आसीत् इत्यस्मिन् विषये वयं ज्ञातुं प्रयास: करिष्याम:।

संस्कृतभाषायाः वैज्ञानिकता  | संस्कृत भाषा की वैज्ञानिकता | Scientism of Sanskrit language

यह भी पढ़े- संस्कृत का महत्त्व

भाषा मानवजीवनस्य प्राचीनतमा उपलब्धिरस्ति। भारतवर्षे भाषाया अध्ययनमपि चिरकालात् जायते। वेदेऽपि भाषासम्बन्धेऽनेके विचारा व्यक्ताः-

 “वाग्वै पराच्यव्याकृता वदन्ते देवा इदमब्रुवन्निमां नो वाचं व्याकुर्विति सोऽब्रवीद्वरं वृणे मह्यं चैवैष वायवे च सह गृह्णता इति तस्माद् ऐन्द्रवायवः सह गृह्यते तामिन्द्रो मध्यतोऽवक्रम्य व्याकरोत्तस्मादियं व्याकृता वागुद्यते।”

 एवमेव –

“वाचं देवा उपजीवन्ति विश्वे वाचं गन्धर्वाः पशवो मनुष्याः वाचीमा विश्वा भुवनान्यर्पिता सा नो हव्यं जुषतामिन्द्रपत्नीः।”

 व्याकरणमहाभाष्येऽपि पतञ्जलिर्लिखति –

“एकः शब्दः सम्यग् ज्ञातः सुप्रयुक्तः स्वर्गे लोके च कामधुग् भवति’।

“दुष्टः शब्दः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह ।

एवमेव पातञ्जलयोगसूत्रे” वर्णितम्- “शब्दार्थ-प्रत्ययानामितरेतराध्यासात् संकरस्तत्प्रविभागसंयमात् सर्वभूत रुतज्ञानम् ।

 अयमाशयः यद् भारतवर्षे भाषासंबन्धिविचारः सदैवावर्तत, किन्तु भाषाया वैज्ञानिकमध्ययनमाधुनिकयुगस्य योगदानमस्ति।

संस्कृतभाषायाः वैज्ञानिकता  | संस्कृत भाषा की वैज्ञानिकता | Scientism of Sanskrit language

आधुनिकसमये संस्कृतभाषा

आधुनिकसमये भाषाया एतादृशं व्यापकमेवञ्च युक्तियुक्तं विवेचनमभवत् यदस्याः स्वरूपं वैज्ञानिकाध्ययनस्य कोट्यामागतम्। भाषाया वैज्ञानिकव्यापका ध्ययनानन्तरमस्या नामकरणसमस्या समुद्भूतासिद्धान्ता: प्रतिपादिता:। भास्कराचार्यः ब्रह्मगुप्तः श्रीधरः महावीरः, श्रीपति अस्य शास्त्रस्य प्रमुखा: आचार्याः: आसन् (न केवलं आर्य  सिद्धान्ता: प्रतिपादिता:। भास्कराचार्यः ब्रह्मगुप्तः श्रीधरः  महावीरः, श्रीपति अस्य शास्त्रस्य प्रमुखा: आचार्याः: आसन् (न केवलं आर्यभट्टः)।

  रसायन विज्ञाने रसरत्नाकरः, रसमन्त्रः, मङ्गलाः ,रसार्णवः, रसेन्द्रचूणामणि इत्यादयः प्रमुखग्रन्थाः आसन्। अस्य शास्त्रस्य प्रमुखाचार्य: नागार्जुनः आसीत्। प्राचीनभारतीयै: कुशाग्रबुद्धि: सूक्ष्मचिन्तनेन  एतत् प्रतिपादितं यत् विज्ञानं। सार्वकालिकं सार्वभौमिकं सार्वजनिनं च वर्तते ।संस्कृते सुरक्षितस्य एतस्य विज्ञानस्य अध्ययनं विना संस्कृतस्य वैज्ञानिक महत्वं ज्ञातुं न शक्नुमः।

 संस्कृतस्य वैज्ञानिक महत्वं प्रचारयितुम् आन्ध्रप्रदेशे तिरुपतिनगरे विद्यमाने राष्ट्रीयसंस्कृतविद्यापीठे संस्कृतविज्ञानस्य कश्चन विभाग: प्रवर्त्तते ,स च विभागः संस्कृते विज्ञानग्रन्थेषु उपलभ्यमानान् अनेकान् अपूर्वविषयान् ग्रन्थरूपेण प्रकाशयति भारते विदेशेषु च संस्कृतविज्ञानप्रदर्शिनी वर्तते। तत्राऽपि संस्कृते कुत्र – कुत्र विज्ञानं भवति शताधिकचित्राणि उपलभ्यन्ते । समय- समये सम्मेलनेषु च तेषां प्रदर्शनं भवति।

यह भी पढ़े- जन्मदिन की बधाई संस्कृत में | Birthday wishes message in sanskrit

संस्कृतभाषायाः वैज्ञानिकमहत्त्वम्

संस्कृतभाषायाः वैज्ञानिकमहत्वम् प्राचीनैः ऋषिभिः ‘मुनिभिः पण्डितेश्च मानवजीवनसुखमयं विधातुं  स्वानुभवेन स्व तपःशक्तया च सम्पादितं कार्यं बहुविधं विज्ञानं संस्कृतभाषया रचितं वर्त्तते। मानवानां स्वास्थयाय तेषां स्वास्थ्यसंरक्षणाय आयुर्वर्धनाय-रोगाणांनिवारणाय च आयुर्वेद: नितराम् उपकारक: भवति। गृह निर्माणाय भवन निर्माणाय, दुर्ग निर्माणाय, वास्तुशास्त्रं, यज्ञयागादिनां सम्पादनाय वा विवाहादिना शुभ कार्याणाम् अनुष्ठानाय ,मानवस्य भूत भविष्यत् वर्त्तमानानां ज्ञानाय च ज्योतिष शास्त्रं मानवस्य उत्तमव्यक्तित्वस्य निर्माणाय संस्काराणां च प्रतिपादनाय धर्मशास्त्रम् ,अर्थव्यवस्थायाः संरक्षणेन प्रजानां हितस्य परिक्षणाय अर्थशास्त्रम्, ऐहिक भोगानां प्रतिपादनाय कामशास्त्रम् इत्यादीनि अनेकशास्त्राणि संस्कृतेन रचितानि समुपलभ्यन्ते ।

संस्कृते वैज्ञानिकतत्त्वानि

अनेकानि वैज्ञानिकतत्वानि भारतीयैः विद्वद्भिः इदं प्रथम तथा प्रतिपादितानि सम्पूर्णविश्वे जना: अपरिचितानि एव सन्ति।

१   भूगोलविज्ञानस्य भूविज्ञानस्य वा खगोलविज्ञानस्य च विद्वांसाः आर्यभट्टः भास्कराचार्यः, वराहमिहिरश्च प्रख्याताः आसन् ।

२   चिकित्सा विज्ञाने आयुर्वेदविषयका बहवः ग्रन्थाः समुपलभ्यन्ते तेषु प्रमुखाचार्येषु भारद्वाजः, पुनर्वसु, चरकः, सुश्रुतः, वाग्भट्टः भावमिश्राश्च प्रमुखा: आसन।

३    भौतिकविज्ञाने महर्षिः कणादस्य महत्वपूर्णं योगदानम् अस्ति । एते महोदयाः अणुसिद्धान्तस्य मुख्य प्रवर्तकाः अन्येश्च उदयनाचार्यः वाचस्पतिमिश्रश्च प्रकाशविषये उष्णताविषये च स्वप्रतिपादनं कृतवन्त:। तस्मिन्नैव काले दिशाबोधनार्थ मत्स्ययन्त्रस्य दिशासूचकयन्त्रस्य आविष्कारः व्यवहार: च ते कृतवन्तः।

४   गणितशास्त्रे शून्यं दशमाङ्कं पद्धतिः एवं π =२२/= .१४ इत्यस्य मानं  पाईथागोरससिद्धान्तः वर्गमूल-घनमूलम् इत्यादय:।

संस्कृतभाषाया: वैज्ञानिकता (वैदिककाले आधुनिककाले च)-वैज्ञानिकाश्च कपिलः कणादः सुश्रुतस्तथा । चरको भास्कराचार्यों वराहमिहिरः सुधीः ।। नागार्जुनो भरद्वाजः आर्यभट्टो वसुर्बुधः ।ध्येयो वेंकटरामश्च विज्ञा रामानुजादयः ।।

संस्कृत साहित्ये कणादः

 संस्कृत-साहित्ये भौतिक विज्ञानस्य प्रवर्तक ऋषिवर: कणादः आसीत्। रसायनशास्त्रस्य वर्णनमपि संस्कृत-साहित्ये वर्तते। नागार्जुनेन ‘रस रत्नाकर’ इत्यस्मिन् ग्रन्थे गंधकस्य शोधनविधेः वर्णनं कृतमस्ति । आयुर्वेदशास्त्रे विभिन्नौषधीनां प्रयोगस्य वर्णनं लभ्यते। कौटिल्यस्यार्थशास्त्रं राजनीत्याः प्रमुखः ग्रन्थो वर्तते। संस्कृतसाहित्ये विभिन्नानां यंत्राणां प्रयोग समुपलभ्यते । कौटिलस्य अर्थशास्त्रेऽपि यंत्राणां वर्णनं लभ्यते । रामस्य पुष्पकविमानस्यवर्णनमपि रामायणे प्राप्यते। भारद्वाजेन ‘सर्वस्य’ नामक रचना विरचिता या च भौतिकविज्ञानस्य एका रचना वर्त्तते । संगणक- यन्त्रम् एवं गतिशीलोपकरणमस्ति येन केषुचित् निमेषु गणनाः गणितीय प्रक्रियाश्च कर्त्तुं शक्यते। अतएव संगणकयन्त्रं नियमानाम् अनुसरणकर्ता कथ्यते । एतस्या ज्ञानसञ्चारविधिक्रान्तेः कश्चनान्तरङ्गः सम्बन्ध: संस्कृत- भाषयाऽपि सह सहसैव समुपलभ्यत यदा अमरीकीयेन वैज्ञानिकेन ‘नासा’ NASA स्थले कार्यरतेन रिक ब्रिग्स RICK BRIGGS इत्याख्येन समुद्घोषितं यत् संस्कृतभाषा खलु विश्वभाषासु कम्प्यूटर विधेः कृते सर्वाधिकमुपयुक्ताऽनुकूला चेति।

यह भी पढ़े- संस्कृत सूक्तियाँ, भाग-14 | Sanskrit Suktiyan (Proverb) Part-14

भाषायाः ऐतिहासिकता

 मानव सभ्यतायाः संस्कृतिश्च विकासे भाषाया: महत्वपूर्णः स्थानं वर्तते। अतः एवं भाषाया: इतिहासः, मानव सभ्यतायाः इतिहास: इति कथनम् अस्मिन् युगे युक्ति संगतं प्रतिभाति (शोभते) कस्यापि मानवस्य बौद्धिक:, शारीरिक:, सामाजिक:, मानसिक:, राजनैतिक:, सांस्कृतिकः,धार्मिकश्च विकास: तस्य भाषाया: साहित्यस्य च विकासः तस्य समृद्धि आश्रमेते या स. साधन रूपेण स्वीकरोति भाषाया: शिक्षा व्यक्तित्वस्य बिकासे उन्नतौ वा सहायिका भवति या भाषा जननां कृते दैनिक जीवने व्यवहारिक कुशलता उन्नति च सम्पादयति अपेक्षितं ज्ञानं अपि प्रददाति कलात्मक अनुभूते: रचनात्मक अभिव्यक्तिश्च अवसरान् प्रकटी करोति।

          भाषाया: अनेकानि रूपाणि भवन्ति यथा मातृ भाषा प्रादेशिक भाषा, राष्ट्रीय भाषा, सांस्कृतिक भाषा अन्तर्राष्ट्री भाषा इत्यादीनि तासु भाषासु मातृ भाषा सर्वाधिक प्रभाव – शालिनी प्रबलतमा च वर्तते । अस्याया: मूल प्रकृतौ पालनपोषणयोश्च प्रगाढो भवति । मातृभाषाया: तस्योपरि प्रादेशिक भाषाया: प्रभाव: दृश्यते तस्य प्रदेशस्य कला संस्कृतिः आचार व्यवहारस्य प्रभावः तस्योपरि भवति तत: परं राष्ट्रीय भाषाया: महत्वपूर्ण स्थानं वर्तते सम्पूर्ण देशस्य ऐतिहासिक पृष्ठभूम्याः राजनैतिक पृष्ठभूतः आर्थिक स्थिते: सामाजिक स्थिते: वाणिज्यिक स्थिते: प्रशासनिक कार्याणां संचार व्यवसायाश्च देशीय एकताया: राष्ट्रीय भावनाया: महत्त्वं सम्पूर्ण देशे भवति इति प्रभाव: अखण्डता याश्च संरक्षणस्य दृश्यते। राष्ट्रीय भाषाया: भिला सर्वस्याऽपि देशस्य एका अन्या भाषा वर्तते।

विश्वस्य प्राचीनतमा भाषा

 यस्यां भाषायां देशस्य प्राचीन संस्कृते: भण्डार: (आकार) एवंसुरक्षितो भवति शिक्षायां एतादृश्याः भाषाया: सांस्कृतिक भाषा रूपे वयं जानीमः अस्या भाषाया: उपादेयता अतीव सीमिता वर्तते परन्तु अस्या: भाषाया: पठन पाठन च देशस्य सांस्कृतिक प्रगतये अत्यावश्यकं वर्तते ।

भाषाया अस्यां सूचिकायाम् अन्तिम स्थाने अन्तर्राष्ट्रीय भाषा वर्त्तते । देशस्य विश्वस्य च सांस्कृतिक – व्यापारिक शैक्षिक वैज्ञानिक  प्रगतये अन्तर्राष्ट्रीय भाषायाः अध्ययनं ज्ञानं च अत्यावश्यकं वर्तते। अस्मिन् संसारे संस्कृत विश्वस्य प्राचीनतया भाषा वर्तते तुमनेद: न केवलं संस्कृते अपितु सम्पूर्ण विश्वे प्राचीनतमा रचना वर्तते। जर्मन विद्वान् मैक्समूलर मतानुसारं – ‘ऋग्वेदस्य केचन व मन्त्रा, ख्रिस्ताब्दः चतुः सहस्त्र वर्षेभ्य’ पूर्व रचिताः इति स्वीकृतम्। लोकमान्य बालगंगाधर तिलकस्य मते → ऋग्वेदस्य केचन भागाः ख्रिस्तात् षड् सहस्र वर्षेम्य: पूर्व रचिता इति तेन स्वीकृतं तथा केचन पाश्चात्या: भारतीयाश्च विद्वांसः ऋग्वेदस्य रचना काल: ख्रिस्तात् पूर्व पञ्चविंशति शतेभ्यः (2500 ई पू) इति मन्यन्ते यद्यपि अस्मिन् विषये मतभेदाः सन्ति तथाऽपि ऋवेद: विश्वस्य प्राचीनतम: ग्रन्थ इत्यन्त्र मतभेदो नास्ति।

यह भी पढ़े- संस्कृताक्षरि | संस्कृत श्लोक | संस्कृत सुभाषित-01

संस्कृत साहित्यस्य इतिहासः

  संस्कृत साहित्यस्य इतिहासः भागद्वयं उपलभ्यते वैदिक संस्कृत, साहित्य द्वितीय लौकिक साहित्यं । वैदिक संस्कृतस्य स्वरूपं विदेषु उपनिषदत्सु आरण्यक ग्रन्थेषु ब्राह्मण ग्रन्थेषु तस्मिन् काले रचितेषु अन्य ग्रन्येषु च उपलभ्यते। लौकिक संस्कृत साहित्य प्राय: पाणिनीय व्याकरण नियमानुसारं दृश्यते अत्र विविध कान्यानि पुराणानि धर्मशास्त्र अलंकारशास्त्र कोषा.: ( अमर कोष, गणितशास्त्र ज्योतिषशास्त्र इत्यादय अनेक विषया: प्राप्यन्ते काव्येषु महाकाव्यानि खण्डकाव्यानि तत्रापि अव्यकाव्य दृश्यकाव्यं गचकाव्यं पद्मकाव्य म्यूकास नीति काव्यं इत्यादीनि उपलभ्यन्ते । प्राचीनकाले संस्कृतं न केवलं साहित्यिकभाषा आसीत् अपितु सामान्यजनानां व्यवहारिकीभाषा आसीत् । अनन्तरकाले उत्पन्ना प्रान्तीयभाषा : मातृभाषाः वा संस्कृत भाषाया साहित्येन अत्यन्तप्रभाविता अभवन् शनैः शनैः पाणिन्यादय: महर्षयः सूत्रसाहित्यस्य रचना अकुर्वन् धर्मस्य संरक्षणेन प्रोत्साहनेन् इयं भाषा देवभाषा पदं अलभत् प्राचीन शिलालेखेषु भुजपत्रेषु ताम्रपत्रेषु संस्कृतस्य उपलभ्य मानत्वात् नाइकेषु (सिक्को) संस्कृतस्य उपलभ्यमानत्वात् अस्या: भाषाया: प्राचीनतत्वं राजकीयत्वं व्यवहारिकत्वं च प्रमाणम् अस्ति ।

सौजन्य- केन्द्रीय संस्कृत विश्वविद्यालय वेदव्यास परिसर, शिक्षाशास्त्री द्वितीय वर्ष (सत्र-2022-2023) के छात्राध्यापक- मनीष, शीतल, ओमकार, रोहित, हिंमाशु।

यह भी देखें- 

भारत में संस्कृत विश्वविद्यालय | Sanskrit Universities in India

जन्मदिन की बधाई संस्कृत में | Birthday wishes message in sanskrit

सूक्तियाँ | Sanskrit Suktiyan (Proverb)

संस्कृत में गिनती (संख्याज्ञान)

Leave a Reply

Your email address will not be published. Required fields are marked *