रक्षाबन्धनपर्वण: ऐतिहासिकता | रक्षाबन्धन की ऐतिहासिकता | History of Rakshabandhan- रक्षाबंधनपर्व: पौराणिक: ऐतिहासिकश्च पर्वो मन्यते । पर्वोऽयं श्रावणीपूर्णिमायां भवति। भारतीय संस्कृत्यानुसारं पर्वोऽयं भ्राताभगिन्यो: स्नेहसम्बन्धं प्रकटयति ।अस्मिन् दिने भगिनी स्वभ्रातरं रक्षासूत्रं बध्नाति ललाटे तिलकञ्च करोति। श्रावणमासे अयं पर्व: विधीयते अत: एव श्रावणी इति नाम्ना पर्वोऽयं अभिज्ञायते।एवं मन्यते यत् पर्वेऽस्मिन् भगिन्य: स्वभ्रात्रॄन् यद् रक्षासूत्रं बध्नन्ति तद्रक्षासूत्रं तेषां सर्वदैव रक्षां विद्धाति। सामान्येन तु पर्वोऽयं भ्राताभगिन्यो: स्नेहपर्व: मन्यते परञ्च अस्य पर्वण: ऐतिहासिकता तु भिन्नैवास्ति।तद्यथा पुराकालं पश्यामश्चेत् पर्वोऽयं निरंतररूपेण प्रचल्यमान: अस्ति।
पर्वस्यास्य ऐतिहासिकताविषये यदि थयामश्चेत् देवदानव कालादेव पर्वस्यास्यारंभ: जात: अस्ति । बहुत्र पुराणादिषु रक्षाबन्धन सम्बद्धा: कथा : उल्लिखिता: वर्तन्ते इति एतत् सर्वं बहुधा अस्माभि: श्रुतिपरम्परायां श्रुतं वर्तते ।
अत: प्रायेण पुराणादिषु रक्षाबंधन सम्बद्धाभि: कथाभि: अस्य पर्वस्य विषये स्पष्टतया अभिज्ञातुं शक्यते । अग्रलिखितेषु प्रसंगेषु तद् वर्णनं कृतं वर्तते । रक्षाबन्धनपर्वण: ऐतिहासिकता | रक्षाबन्धन की ऐतिहासिकता | History of Rakshabandhan
यह भी पढ़े- संस्कृतभाषायाः वैज्ञानिकता | संस्कृत भाषा की वैज्ञानिकता | Scientism of Sanskrit language
रक्षाबंधनपर्वणः पौराणिकता
रक्षाबंधनपर्वण: आरम्भ: कदा अभूत् इत्येतस्य विषये कोऽपि न जानाति प्रायेण बहुनां जनानाम् एतस्मिन् विषये स्पष्टतया ज्ञानं न वर्तते यद् रक्षाबंधन पर्वण: आरम्भ: कदा जात:, कथं च जात:, कीदृशावधारणया च जात: अस्मिन् विषये केनापि स्पष्टं ज्ञानं न प्राप्तमस्ति । किन्तु महाभारतस्य भविष्यपुराणे वर्णनं मिलति यत् देव – दानवयो: युद्धं यदा प्रवृत्तं तदा दानवानां शक्तिर्धिका आसीत्। भगवान् इन्द्र: भीत्वा बृहस्पते: पार्श्वे गत: तत्र उपविष्टा इन्द्रस्य पत्नी सर्वं श्रृण्वति आसीत्। इन्द्राणी रेशमसूत्रं मन्त्रै: शक्तिभिश्च पवित्रं कृत्वा स्वस्य पत्यु: हस्ते अबध्नात् ,संयोगेन तद् दिनं श्रावणपूर्णिमाया: आसीत् । जनानां विश्वास: वर्तते यत् इन्द्र: अस्मिन् युद्धे सूत्रस्य मन्त्रशक्तिभि: विजयी अभूत ।तस्मादेव दिवसात् श्रावणपूर्णिमाया: दिने सूत्र बन्धनस्य काचित् प्रथा प्रचलिता । इदं सूत्रं धन , शक्ति: , हर्ष: ,विजयप्राप्तये सम्पूर्णतया समर्थं मन्यते । स्कन्धपुराणे पद्मपुराणे श्रीमद्भागवतपुराणे वामनावतारनामकेपुराणे च रक्षाबन्धनविषये बहुविधकथा: प्रसंगाश्च लभन्ते।
तत्सम्बद्धा एव काचित् कथा प्रसिद्धा वर्तते । राजा बलि नाम्ना कश्चित राजा प्रसिद्ध: आसीत् । स: दानवीर नाम्नापि प्रसिद्ध: आसीत्। एकदा दानवेन्द्रेण राजा बलिना शतं यज्ञानि पूरयित्वा स्वर्गराज्यं अपहर्तुं प्रयत्न: विहित: तदा इन्द्रादि: देवताभि: भगवत: विष्णो: समक्षे प्रार्थना कृता ।तदा भगवान् अवतारं स्वीकृत्य ब्राह्मणवेषे राजा बले: पार्श्वे भिक्षां याचितवान् । गुरुनिषेधे सत्यपि राजाबलिना पगत्रयं भूमि: दानरूपेण प्रदत्ता । भगवता पगत्रयस्य भूमे: मापनं कृत्वा राजाबलि: रसातलं प्रेषित: । अनेन प्रकारेण भगवता विष्णुना राजा बले: अभिमानं नष्टीकृतं तस्मादेव अयं पर्व: बलेव नाम्ना अपि प्रसिद्धो वर्तते।
अतएव कथ्यते तादृशस्य महानतमस्य राजाबलिन: विषये यद् लोके प्राय: एव तादृश: दानवीर: स्यात् य: राजा बलि सदृश: स्यात्। कथितमपि अस्ति यत् : –
येन बद्धो बलिराजा दानवेन्द्रो महाबल: ।
तेन त्वामपि बध्नामि रक्षे मा चल मा चल।।
श्लोकोऽयमपि राजाबलिन: दानरूपी महाबलस्य रक्षासूत्रस्य शक्तेश्च आभासं कारयति ।
रक्षाबंधनपर्वणः ऐतिहासिकता | History of Rakshabandhan
रक्षाबंधनपर्वणः ऐतिहासिकता | History of Rakshabandhan– एवं मन्यते यत् राजपूतयोद्धा: यदा युद्धार्थं गच्छन्ति स्म तदा तेषां भार्या: ललाटे तिलकं मणिबन्धे सूत्रञ्च बध्नान्ति स्म।तासां मान्यतासीत् यत् तत् सूत्रं राजपूतानां विजयप्राप्तये साहाय्यमाचरति । रक्षाबंधन विषये एका कथा अतीव प्रसिद्धा वर्तते यत् – मेवाड़ राज्यस्य राज्ञीं कर्मावतीं बहादुरशाह द्वारा मेवाड़स्योपरि आक्रमणस्य काचिद् पूर्व सूचना प्राप्तासीत् । राज्ञी युद्धार्थम् असमर्थासीत् अत: एव तया मुगलबादशाहं हुमायूं रक्षासूत्रं प्रेषितं स्वस्य रक्षायै निवेदनञ्च कृतम्। हूंमायु: यद्यपि यवन: तथापि कर्मवत्या प्रेषित रक्षासूत्रस्य सम्माननं कुर्वन् बहादुरशाहेन सह युद्धं कृत्वा मेवाड़राज्यस्य रक्षाम् अकरोत् ।
महाभारतेऽपि तथैव कश्चित् प्रसंग: आयाति य: रक्षाबन्धनस्य ऐतिहासिकतां प्रदर्शयति । स: प्रसंग: अयं वर्तते – महाभारतकाले यदा पाण्डवा : सर्वसंकटग्रसिता: आसन् तदानीं ज्येष्ठ पाण्डवेन युद्धिष्ठिरेण भगवत: कृष्णात् पृष्टं यत् वयं कथं एतासां समस्यानां समाधानं कर्तुं शक्नुम: । तदा भगवता कृष्णेन तेषां तथा तेषां सेनाया: रक्षायै रक्षाबन्धनपर्वायोजनस्य परामर्श: प्रदत्त: । तेषां कथनमासीत् यत् सूत्रेस्मिन् तावती शक्तिर्वर्तते यद्भवतामापत्तिं विनाशयितुं शक्नोति । अनेन प्रकारेण द्रौपदी द्वारा कृष्णं कुन्ती द्वारा अभिमन्युं रक्षासूत्रबन्धनस्य सदृश बहुविधुल्लेखा: प्राप्यन्ते ।महाभारतैव रक्षाबन्धन सम्बद्ध: अपरैक: कृष्णद्रौपद्यो: वृतान्त: प्राप्यते यदा कृष्णेन सुदर्शनचक्र द्वारा शिशुपालस्य सम्हार: कृत: तदा कृष्णस्य तर्जन्यां लग्नम् अभूत । तदा द्रौपद्या स्वीय शाटिकाया: कर्तनं कृत्वा तस्य अंगुल्यां बन्धनं कृतम् । तद् दिनं श्रावणपूर्णिमाया: आसीत्। कृष्णेन अस्य प्रतिशोध: चीरहरणकाले तस्या: शाटिकाया: वर्धनं कृत्वा स्वीकृत: ।कथ्यते यत् परस्परं रक्षाया: सहयोगस्य च भावना रक्षाबंधनपर्वे इत: एव प्रारब्ध: । अनेन प्रकारेण अस्य पर्वण: ऐतिहासिकतया एतादृशानुभूति: भूयते यत् रक्षाबंधनस्य परम्परेयं पुराकालात् प्रचल्यते ऐतिहासिकतां च भजते।
यह भी पढ़े- संस्कृत सूक्तियाँ, भाग-10 | Sanskrit Suktiyan (Proverb) Part-10
रक्षाबंधनपर्वणः धार्मिकता
उत्तरान्चले अयं पर्वः श्रावणी इति नाम्ना अभिज्ञायते।अस्मिन् दिने यजुर्वेदी द्विजानाम् उपकर्मः भवति। उत्सर्जन- स्नान विधि ऋषि -तर्पणादि कृत्वा नवीन यज्ञोपवीतं धार्यते। ब्राह्मणानाम् अयम् अत्यन्तमनिवार्यं पर्वः मन्यते।
वृत्तिवान् ब्राह्मणा: स्व यजमानान् यज्ञोपवीतं तथा रक्षासूत्रं दत्वा दक्षिणां स्वीकुर्वन्ति। महाराष्ट्रराज्ये अयं पर्वः नारिकेल -पूर्णिमा उत् वा श्रावणी इति नाम्ना ज्ञायते। अस्मिन् एव दिने जनाः नदीनां समुद्राणां वा तटं गत्वा यज्ञोपवीतं परिवर्तयन्ति एवञ्च समुद्रस्वामिने वरुणदेवस्य पूजां कुर्वन्ति तथा नारिकेल फलानि अर्पयन्ति।
राजस्थाने रामराखी , चूडाराखी तथा च लूम्बादि बन्धनपरंपरा वर्तते।
चूडा़राखी सामान्य रक्षाबन्धनात् भिन्नं भवति। चूडा़राखी इत्यस्याः बन्धनं प्रजावतिनां कङ्कणासु क्रियते। जोधपुरे रक्षाबन्धनस्य दिने न केवलं रक्षासूत्रं एव धार्यते अपितु मध्याह्नकाले पद्मसरे मिनाकड्यां गोमलेन भस्मेन वा शरीरं शुद्धी क्रियते। तदन्तरं धर्मस्य वेदानाञ्च प्रवचनकर्त्रा अरुन्धती -गणपति -दुर्गा -गोमिला सप्तर्षिणाञ्च पूजास्थलं निर्माय मन्त्रोच्चारणै: तेषां पूजा क्रियते। तेषां तर्पणं कृत्वा पितृऋणं परिपूर्यते। धार्मिकानुष्ठानानन्तरं गृह्मागत्य हवनं यज्ञं वा क्रियते। तथा रेशमी सूत्रेण रक्षासूत्रं निर्मान्ति। तमिलनाडु, केरल, महाराष्ट्र एवम् उड़िसा प्रदेशस्य दक्षिण – भारतीय ब्राह्मणै: पर्वणो अयं अवनि -अवितम् इति नाम्ना ज्ञायते।यज्ञोपवीतं धृतानां ब्राह्मणानां कृते अयं महत्वपूर्ण: दिवसः भवति। अस्मिन् दिवसे नदीनां सागराणां वा तटे स्नानान्तरं ऋषीणां तर्पणं कृत्वा नवीनं यज्ञोपवीतं धारयते। अस्मिन् दिने यजुर्वेदीय ब्राह्मणा: षड् मासात्मकं वेदाध्ययनं प्रारम्भं कुर्वन्ति। अस्य पर्वण: उपक्रमण नाम अपि वर्तते यस्यार्थ:भवति नवीनारम्भः इति । व्रज मध्ये हरियाली तीज (श्रावण शुक्ल तृतीया) तः श्रावणी पूर्णिमा पर्यन्तं समस्त गृहेषु देवालयेषु च श्रीकृष्ण: (ठाकुर:) दोलायां विराजित: भवति। रक्षाबन्धनस्य दिने दोलादर्शनस्य समापनं भवति।
यह भी देखें- विद्या पर आधारित संस्कृत श्लोक
रक्षाबंधनपर्वणः साहित्यिकप्रसङ्ग:
यदि साहित्य दृष्ट्या पश्यामश्चेत् अनेके तादृशा: ग्रन्था : प्राप्यन्ते येषु ग्रन्थेषु रक्षाबन्धनपर्वण: विषये उल्लेख: प्राप्यते ।एतेषु सर्वाधिक: महत्त्वपूर्ण: ग्रन्थ: वर्तते हरिकृष्णप्रेमी द्वारा विरचितं नाटकं रक्षाबंधनम् इति।अयं ग्रन्थ: रक्षाबन्धनस्योपरि एव विलिखित: वर्तते। अस्य ग्रन्थस्य १९९१ तमे वर्षे १८तमं संस्करणं प्रकाशितं जातं वर्तते ।
मराठी भाषायां शिन्दे साम्राज्यस्य विषये लिखन् रामरावबर्गे महोदयेन एकस्य नाटकस्य रचना कृता यस्य शीर्षकं आसीत् राखी उर्फ रक्षाबंधन इति । ग्रन्थेस्मिन्नपि रक्षाबंधन विषये विस्तृतोल्लेख: कृत: वर्तते ।५० -६०तमे वर्षे च हिन्दी चलचित्रेषु अपि अयमेव विषय: सर्वाधिक: प्रचल्यमान: आसीत् । न केवलं राखी इति नाम्ना अपितु रक्षाबंधनम् इति नाम्ना अपि बहुविधानि चलचित्राणि निर्मितानि वर्तन्ते । राखी नाम्ना वारद्वयं चलचित्रं निर्मितमस्ति। प्रथमं तु १९४९ तमे वर्षे अपरञ्च १९६२ तमे वर्षे अस्मिन् चलचित्रे राजेन्द्रकृष्ण वर्येण एकं गीतमपि लिखितं वर्तते राखी धागों का त्योहार इति। एवमनेन प्रकारेण १९७६तमे वर्षे रमाकांत वर्येण दारासिंह वर्येण शान्तिलालस्वामि सचिन सारिका इत्यादिभि: बहुविधानि रक्षाबंधन सम्बद्धानि लोकप्रियचलचित्राणि रचितानि।
अत: साहित्यं परिशील्य अभिज्ञातुं शक्यते यत् रक्षाबंधनम् इति पर्व: पुराकालादेव प्रचलितोस्ति ।एवं साहित्यस्य बहुविधै: ग्रन्थै: प्रमाणीकृतं वर्तते यद् रक्षाबंधनस्य का महत्ता किञ्च प्रयोजनं कश्चाभिप्राय: अस्माकं भारतीय संस्कृतौ वर्तते अस्य पर्वणविशेषस्य इति।
पूर्वतनकालस्यापेक्षया आधुनिके काले रक्षासूत्रबन्धनस्य परम्परेऽयं संकुचित रूपं भजते। आधुनिके तु पर्वोऽयं केवलं भ्राताभगिन्यो: पर्व: वर्तते इयमेव प्रतीति: भवति । अत: वक्तुं शक्यते यत् पूर्वतनापेक्षया अधुना पर्वस्यास्य रूपं संकुचितां याति । अयमेव निष्कर्षो दृष्टिपथे आयातीति। रक्षाबंधनपर्वणः ऐतिहासिकता | History of Rakshabandhan
सौजन्यः- केन्द्रीय संस्कृत विश्वविद्यालय वेदव्यास परिसर, शिक्षाशास्त्री द्वितीय वर्ष (सत्र-2022-2023) के छात्राध्यापक- निशादेवी, टेकचन्दः, ज्योत्स्ना, दीक्षा, रीता।
यह भी देखें-
भारत में संस्कृत विश्वविद्यालय | Sanskrit Universities in India
जन्मदिन की बधाई संस्कृत में | Birthday wishes message in sanskrit
सूक्तियाँ | Sanskrit Suktiyan (Proverb)